Sukta 9.107
पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥
पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि । आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्यय॑: ॥
punānáḥ soma dhā́rayā ā́po vásāno arṣasi | ā́ ratna-dhā́ yónim ṛtásya sīdasy útsō deva hiraṇyáyaḥ ||
Purifying yourself, O Soma, you flow in a stream, clothed with the waters. O holder of the riches, you take your seat in the womb of Ṛta, a golden spring, O god.
पु॒ना॒नः । सो॒म॒ । धार॑या । अ॒पः । वसा॑नः । अ॒र्ष॒सि॒ । आ । र॒त्न॒ऽधाः । योनि॑म् । ऋ॒तस्य॑ । सी॒द॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ॥पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । योनिम् । ऋतस्य । सीदसि । उत्सः । देव । हिरण्ययः ॥punānaḥ | soma | dhārayā | apaḥ | vasānaḥ | arṣasi | ā | ratna-dhāḥ | yonim | ṛtasya | sīdasi | utsaḥ | deva | hiraṇyayaḥ