Sukta 9.107
परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥
परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑न॒: क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥
pári suvānáś cákṣase deva-mā́danaḥ krátur índur vi-cákṣaṇaḥ ||
Flowing all around, you are seen—O delight of the gods; the luminous drop, the will of action, wide-seeing in discernment.
परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥परि । सुवानः । चक्षसे । देवमादनः । क्रतुः । इन्दुः । विचक्षणः ॥pari | suvānaḥ | cakṣase | deva-mādanaḥ | kratuḥ | induḥ | vi-cakṣaṇaḥ