Sukta 9.107
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥
नू॒नं पु॑ना॒नोऽवि॑भि॒: परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः । सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ॥
nū́naṃ punānáḥ aví-bhiḥ pári sravā́d abdháḥ surabhín-taraḥ | suté cít tvā́ apsú madāmo ándhasā śrīṇántaḥ góbhir úttaram ||
Now, being purified, flow all around through the sheep’s-wool (filter), invincible and more perfectly fragrant. Even when pressed, we rejoice in you in the waters by your ecstasy; we strengthen (our being) with the rays of Light, rising to the higher level.
नू॒नम् । पु॒ना॒नः । अवि॑ऽभिः । परि॑ । स्र॒व॒ । अद॑ब्धः । सु॒र॒भिम्ऽत॑रः । सु॒ते । चि॒त् । त्वा॒ । अ॒प्ऽसु । मा॒दा॒मः॒ । अन्ध॑सा । श्री॒णन्तः॑ । गोभिः॑ । उत्ऽत॑रम् ॥नूनम् । पुनानः । अविभिः । परि । स्रव । अदब्धः । सुरभिम्तरः । सुते । चित् । त्वा । अप्सु । मादामः । अन्धसा । श्रीणन्तः । गोभिः । उत्तरम् ॥nūnam | punānaḥ | avi-bhiḥ | pari | srava | adabdhaḥ | surabhim-taraḥ | sute | cit | tvā | ap-su | mādāmaḥ | andhasā | śrīṇantaḥ | gobhiḥ | ut-taram