Sukta 9.107
स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः । त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वन्ति धी॒तिभि॑: ॥
sá tū́ pavasva pári pārthiváṃ rájo divyā́ ca soma dhárma-bhiḥ | tvā́ṃ víprāso matíbhir vi-cákṣaṇa śúbhraṃ hinvanti dhītí-bhiḥ ||
Therefore flow, O Soma, around the earthly region and the heavenly by thy laws of right working. The seers, O clear-sighted one, urge thee—pure and bright—with their thought and their concentrated insights.
सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । दि॒व्या । च॒ । सो॒म॒ । धर्म॑ऽभिः । त्वाम् । विप्रा॑सः । म॒तिऽभिः॑ । वि॒ऽच॒क्ष॒ण॒ । शु॒भ्रम् । हि॒न्व॒न्ति॒ । धी॒तिऽभिः॑ ॥सः । तु । पवस्व । परि । पार्थिवम् । रजः । दिव्या । च । सोम । धर्मभिः । त्वाम् । विप्रासः । मतिभिः । विचक्षण । शुभ्रम् । हिन्वन्ति । धीतिभिः ॥saḥ | tu | pavasva | pari | pārthivam | rajaḥ | divyā | ca | soma | dharma-bhiḥ | tvām | viprāsaḥ | mati-bhiḥ | vi-cakṣaṇa | śubhram | hinvanti | dhīti-bhiḥ