Sukta 9.107
मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥
मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ । दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो अ॑र्षसि ॥
mṛjānáḥ vā́re pávamāno avyáye vṛ́ṣā́va cakrado váne | devā́nāṃ soma pavamāna niṣkṛtáṃ góbhir añjānáḥ arṣasi ||
Cleansing thyself in the waters, O Soma, as thou flowest through the imperishable (wool) filter, a strong Bull, thou makest thy radiant movement in the wood (of the pressing). O Soma, in thy purification, thou streamest forth—made ready for the gods—brightened and anointed by the Rays of Light (the cows).
मृ॒जा॒नः । वारे॑ । पव॑मानः । अ॒व्यये॑ । वृषा॑ । अव॑ । च॒क्र॒दः॒ । वने॑ । दे॒वाना॑म् । सो॒म॒ । प॒व॒मा॒न॒ । निः॒ऽकृ॒तम् । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒सि॒ ॥मृजानः । वारे । पवमानः । अव्यये । वृषा । अव । चक्रदः । वने । देवानाम् । सोम । पवमान । निःकृतम् । गोभिः । अञ्जानः । अर्षसि ॥mṛjānaḥ | vāre | pavamānaḥ | avyaye | vṛṣā | ava | cakradaḥ | vane | devānām | soma | pavamāna | niḥ-kṛtam | gobhiḥ | añjānaḥ | arṣasi