Sukta 9.107
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । दधन्वाँ यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥
परी॒तो षि॑ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः । द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥
parītó ṣiñcatā sutáṃ sómo yá uttamáṃ havíḥ | dadhanvā́ṃ yó naryó apsv àntarā́ ā susā́va sómam ádribhiḥ ||
Pour all around the pressed Soma—he who is the supreme offering. He who bears the manly power, who within the waters has been pressed out by the stones: let that Soma be established in the circle of our work.
परि॑ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्ऽत॒मम् । ह॒विः । द॒ध॒न्वान् । यः । नर्यः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒साव॑ । सोम॑म् । अद्रि॑ऽभिः ॥परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्तमम् । हविः । दधन्वान् । यः । नर्यः । अप्सु । अन्तः । आ । सुसाव । सोमम् । अद्रिभिः ॥pari | itaḥ | siñcata | sutam | somaḥ | yaḥ | ut-tamam | haviḥ | dadhanvān | yaḥ | naryaḥ | ap-su | antaḥ | ā | susāva | somam | adri-bhiḥ