Sukta 9.107
इन्द्राय पवते मदः सोमो मरुत्वते सुतः । सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥
इन्द्रा॑य पवते॒ मद॒: सोमो॑ म॒रुत्व॑ते सु॒तः । स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजन्त्या॒यव॑: ॥
índrāya pavate mádaḥ sómo marútvate sutáḥ | sahásra-dhāro áty avyám arṣati tám ī́ mṛjanti ā́yavaḥ ||
For Indra the ecstasy flows—Soma pressed for the Lord of the Maruts. Thousand-streamed, he rushes beyond the fleece-filter; and the eager energies cleanse him and make him bright.
इन्द्रा॑य । प॒व॒ते॒ । मदः॑ । सोमः॑ । म॒रुत्व॑ते । सु॒तः । स॒हस्र॑ऽधारः । अति॑ । अव्य॑म् । अ॒र्ष॒ति॒ । तम् । ई॒म् इति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः । सहस्रधारः । अति । अव्यम् । अर्षति । तम् । ईम् इति । मृजन्ति । आयवः ॥indrāya | pavate | madaḥ | somaḥ | marutvate | sutaḥ | sahasra-dhāraḥ | ati | avyam | arṣati | tam | īm iti | mṛjanti | āyavaḥ