Sukta 9.107
अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥
अ॒भि सोमा॑स आ॒यव॒: पव॑न्ते॒ मद्यं॒ मद॑म् । स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रास॑: स्व॒र्विद॑: ॥
abhí sómāsa ā́yavaḥ pávante mádyaṃ mádam | samudrásyādhi viṣṭápi manīṣíṇo matsarā́saḥ svàr-vidaḥ ||
The Soma-streams, eager in their movement, purify themselves into the rapturous delight. Upon the ocean’s wide seat they take their station—thinkers, ecstasy-bearers, finders of the Sun-world (the luminous plane).
अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । म॒नी॒षिणः॑ । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । अधि । विष्टपि । मनीषिणः । मत्सरासः । स्वःविदः ॥abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam | samudrasya | adhi | viṣṭapi | manīṣiṇaḥ | matsarāsaḥ | svaḥ-vidaḥ