Sukta 9.107
आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥
आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्य॑: । तमीं॑ हिन्वन्त्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥
ā́ haryató árjune átké avyata priyáḥ sūnúr ná márjyaḥ | tám īṃ hinvanty apáso yáthā ráthaṃ nadī́ṣv ā́ gábhastyoḥ ||
He has been woven out upon the shining tawny filter, dear like a son to be cleansed and made ready. The active energies drive him on, as one urges a chariot, along the river-courses, into the two hands (that receive and bear him).
आ । ह॒र्य॒तः । अर्जु॑ने । अत्के॑ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः॑ । तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः॑ । यथा॑ । रथ॑म् । न॒दीषु॑ । आ । गभ॑स्त्योः ॥आ । हर्यतः । अर्जुने । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः । तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥ā | haryataḥ | arjune | atke | avyata | priyaḥ | sūnuḥ | na | marjyaḥ | tam | īm | hinvanti | apasaḥ | yathā | ratham | nadīṣu | ā | gabhastyoḥ