Sukta 9.107
स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिॠक्वभिः ॥
स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः । अ॒नु॒माद्य॒: पव॑मानो मनी॒षिभि॒: सोमो॒ विप्रे॑भि॒ॠक्व॑भिः ॥
sá māmṛje tiró áṇvāni meṣyó mīḍhé saptír ná vāja-yúḥ | anumā́dyaḥ pávamāno manīṣí-bhiḥ sómo víprebhir ṛ́kva-bhiḥ ||
He has cleansed himself, passing through the fine threads—like a ram—like a steed eager for plenitude. Following after the ecstasy, Soma the purifying one is urged on by the thinkers, by the inspired singers.
सः । म॒मृजे । ति॒रः । अण्वा॑नि । मे॒ष्यः॑ । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः । अ॒नु॒ऽमाद्यः॑ । पव॑मानः । म॒नी॒षिऽभिः॑ । सोमः॑ । विप्रे॑भिः । ऋक्व॑ऽभिः ॥सः । ममृजे । तिरः । अण्वानि । मेष्यः । मीळ्हे । सप्तिः । न । वाजयुः । अनुमाद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । ऋक्वभिः ॥saḥ | mamṛje | tiraḥ | aṇvāni | meṣyaḥ | mīḷhe | saptiḥ | na | vāja-yuḥ | anu-mādyaḥ | pavamānaḥ | manīṣi-bhiḥ | somaḥ | viprebhiḥ | ṛkva-bhiḥ