Sukta 9.106
आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥
आ न॑: सुतास इन्दवः पुना॒ना धा॑वता र॒यिम् । वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विद॑: ॥
ā naḥ sutāsa indavaḥ punānā́ dhā́vata rayím | vṛṣṭídyāvo rī́tyāpaḥ svarvídaḥ ||
Come to us, O pressed Indus; in your purification run bringing the plenitude. You whose heaven is rain and whose waters are streaming—finders of the Sun-world within.
आ । नः॒ । सु॒ता॒सः॒ । इ॒न्द॒वः॒ । पु॒ना॒नाः । धा॒व॒त॒ । र॒यिम् । वृ॒ष्टिऽद्या॑वः । री॒ति॒ऽआ॒पः॒ । स्वः॒ऽविदः॑ ॥आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् । वृष्टिद्यावः । रीतिआपः । स्वःविदः ॥ā | naḥ | sutāsaḥ | indavaḥ | punānāḥ | dhāvata | rayim | vṛṣṭi-dyāvaḥ | rīti-āpaḥ | svaḥ-vidaḥ