Sukta 9.106
सोमः पुनान ऊर्मिणाव्यो वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥
सोम॑: पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति । अग्रे॑ वा॒चः पव॑मान॒: कनि॑क्रदत् ॥
sómaḥ punānā́ ūrmíṇā́vyo vā́raṃ ví dhā́vati | ágre vā́caḥ pávamānaḥ kaníkradat ||
Soma, purifying himself, with the wave in the sheep’s wool runs through the strainer. In front of the Word, the purifying one resounds—awakening the utterance from within.
सोमः॑ । पु॒ना॒नः । ऊ॒र्मिणा॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ । अग्रे॑ । वा॒चः । पव॑मानः । कनि॑क्रदत् ॥सोमः । पुनानः । ऊर्मिणा । अव्यः । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥somaḥ | punānaḥ | ūrmiṇā | avyaḥ | vāram | vi | dhāvati | agre | vācaḥ | pavamānaḥ | kanikradat