Sukta 9.106
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥
तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः । त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥
táva drapsā́ udaprúta índraṃ mádāya vāvṛdhuḥ | tvā́ṃ devā́so amṛ́tāya káṃ papuḥ ||
Your drops, surging upward, have increased Indra for the ecstasy of power. The gods have drunk you for immortality—pure delight made into deathless substance.
तव॑ । द्र॒प्साः । उ॒द॒ऽप्रुतः॑ । इन्द्र॑म् । मदा॑य । व॒वृ॒धुः॒ । त्वाम् । दे॒वासः॑ । अ॒मृता॑य । कम् । प॒पुः॒ ॥तव । द्रप्साः । उदप्रुतः । इन्द्रम् । मदाय । ववृधुः । त्वाम् । देवासः । अमृताय । कम् । पपुः ॥tava | drapsāḥ | uda-prutaḥ | indram | madāya | vavṛdhuḥ | tvām | devāsaḥ | amṛtāya | kam | papuḥ