Sukta 9.106
अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः । सहस्रं याहि पथिभिः कनिक्रदत् ॥
अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः । स॒हस्रं॑ याहि प॒थिभि॒: कनि॑क्रदत् ॥
asmábhyaṃ gātuvíttamo devébhyo mádhumattamaḥ | sahásraṃ yāhi pathíbhiḥ kaníkradat ||
For us become the best finder of the path; for the Gods become the most honey-filled. Travel by a thousand ways, resounding with the cry of awakened force.
अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑मः । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः । स॒हस्र॑म् । या॒हि॒ । प॒थिऽभिः॑ । कनि॑क्रदत् ॥अस्मभ्यम् । गातुवित्तमः । देवेभ्यः । मधुमत्तमः । सहस्रम् । याहि । पथिभिः । कनिक्रदत् ॥asmabhyam | gātuvit-tamaḥ | devebhyaḥ | madhumat-tamaḥ | sahasram | yāhi | pathi-bhiḥ | kanikradat