Sukta 9.106
अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥
अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः । सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥
ayáṃ bhárāya sānasír índrāya pavate sutáḥ | sómo jáitrasya cetati yáthā vidé ||
This pressed Soma flows for bearing and winning, for Indra. Soma awakens the victorious consciousness, so that we may know—so that knowledge may be found in the right way.
अ॒यम् । भरा॑य । सा॒न॒सिः । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः । सोमः॑ । जैत्र॑स्य । चे॒त॒ति॒ । यथा॑ । वि॒दे ॥अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः । सोमः । जैत्रस्य । चेतति । यथा । विदे ॥ayam | bharāya | sānasiḥ | indrāya | pavate | sutaḥ | somaḥ | jaitrasya | cetati | yathā | vide