Sukta 9.106
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टी जातास इन्दवः स्वर्विदः ॥
इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः । श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विद॑: ॥
índram áccha sutā́ imé vṛ́ṣaṇaṃ yantu hárayaḥ | śruṣṭī́ jātā́sa índavaḥ svàrvidaḥ ||
To Indra let these pressed Soma-drops go—toward the Bull of force—borne by the tawny energies. The Indus are born in obedience (śruṣṭī), finders of the Sun-world: they carry the will-to-hear and fulfill the divine intent.
इन्द्र॑म् । अच्छ॑ । सु॒ताः । इ॒मे । वृष॑णम् । य॒न्तु॒ । हर॑यः । श्रु॒ष्टी । जा॒तासः॑ । इन्द॑वः । स्वः॒ऽविदः॑ ॥इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टी । जातासः । इन्दवः । स्वःविदः ॥indram | accha | sutāḥ | ime | vṛṣaṇam | yantu | harayaḥ | śruṣṭī | jātāsaḥ | indavaḥ | svaḥ-vidaḥ