Sukta 9.106
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् । वज्रं च वृषणं भरत्समप्सुजित् ॥
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् । वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥
asyéd índro mádeṣv ā́ grābháṃ gṛbhṇīta sānasím | vájraṃ ca vṛ́ṣaṇaṃ bharat sám apsujít ||
Of this Soma, in the raptures, Indra grasps the winning hold. He brings together the thunderbolt and the bull-force—he who conquers in the waters—uniting might and right movement for the victory of the light.
अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् । वज्र॑म् । च॒ । वृष॑णम् । भ॒र॒त् । सम् । अ॒प्सु॒ऽजित् ॥अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णीत । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुजित् ॥asya | it | indraḥ | madeṣu | ā | grābham | gṛbhṇīta | sānasim | vajram | ca | vṛṣaṇam | bharat | sam | apsu-jit