Sukta 9.106
पवते हर्यतो हरिरति ह्वरांसि रंह्या । अभ्यर्षन्त्स्तोतृभ्यो वीरवद्यशः ॥
पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ । अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यश॑: ॥
pávate haryató hárir áti hvárāṃsi raṃhyā́ | abhýarṣan stotṛ́bhyo vīrávad yáśaḥ ||
He purifies—the golden one yearning onward—swiftly passing beyond the crookednesses. He streams toward the singers, bringing a glory that is rich in heroic force.
पव॑ते । ह॒र्य॒तः । हरिः॑ । अति॑ । ह्वरां॑सि । रंह्या॑ । अ॒भि॒ऽअर्ष॑न् । स्तो॒तृऽभ्यः॑ । वी॒रऽव॑त् । यशः॑ ॥पवते । हर्यतः । हरिः । अति । ह्वरांसि । रंह्या । अभिअर्षन् । स्तोतृभ्यः । वीरवत् । यशः ॥pavate | haryataḥ | hariḥ | ati | hvarāṃsi | raṃhyā | abhi-arṣan | stotṛ-bhyaḥ | vīra-vat | yaśaḥ