Sukta 9.106
असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः । पुनानो वाचं जनयन्नसिष्यदत् ॥
अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः । पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥
ásarji kalaśā́ṃ abhí mīḷhé saptír ná vājayúḥ | punānó vā́caṃ janáyann asisyadat ||
He has been let loose toward the vessels, to the bountiful giving, like a steed eager for plenitude. Purifying, he brings the Word to birth and presses on with insistent motion.
अस॑र्जि । क॒लशा॑न् । अ॒भि । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् ॥असर्जि । कलशान् । अभि । मीळ्हे । सप्तिः । न । वाजयुः । पुनानः । वाचम् । जनयन् । असिस्यदत् ॥asarji | kalaśān | abhi | mīḷhe | saptiḥ | na | vāja-yuḥ | punānaḥ | vācam | janayan | asisyadat