Sukta 9.106
अया पवस्व देवयुर्मधोर्धारा असृक्षत । रेभन्पवित्रं पर्येषि विश्वतः ॥
अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत । रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वत॑: ॥
ayā́ pavasva devayúr mádhor dhā́rā asṛkṣata | rébhan pavítraṃ páryeṣi viśvátas ||
Thus purify yourself, longing for the gods; the streams of honey have been released. O chanting one, you move around the filter from every side—making the whole being clear.
अ॒या । प॒व॒स्व॒ । दे॒व॒ऽयुः । मधोः॑ । धाराः॑ । अ॒सृ॒क्ष॒त॒ । रेभ॑न् । प॒वित्र॑म् । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ॥अया । पवस्व । देवयुः । मधोः । धाराः । असृक्षत । रेभन् । पवित्रम् । परि । एषि । विश्वतः ॥ayā | pavasva | deva-yuḥ | madhoḥ | dhārāḥ | asṛkṣata | rebhan | pavitram | pari | eṣi | viśvataḥ