Sukta 9.105
अयं दक्षाय साधनोऽयं शर्धाय वीतये । अयं देवेभ्यो मधुमत्तमः सुतः ॥
अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ । अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥
ayáṃ dákṣāya sā́dhano ’yáṃ śárdhāya vītáye | ayáṃ devébhyo mádhumattamaḥ sutáḥ ||
This Soma is the accomplisher for the power of discerning skill (dakṣa); this is for the host (śardha) for their right enjoyment and taking in. This, pressed out, is for the gods the most honey-full—densest in sweetness and delight.
अ॒यम् । दक्षा॑य । साध॑नः । अ॒यम् । शर्धा॑य । वी॒तये॑ । अ॒यम् । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः । सु॒तः ॥अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः । मधुमत्तमः । सुतः ॥ayam | dakṣāya | sādhanaḥ | ayam | śardhāya | vītaye | ayam | devebhyaḥ | madhumat-tamaḥ | sutaḥ