Sukta 9.105
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । देवावीर्मदो मतिभिः परिष्कृतः ॥
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते । दे॒वा॒वीर्मदो॑ म॒तिभि॒: परि॑ष्कृतः ॥
saṃ vatsa iva mātṛbhir índur hinvā́no ajyate | devāvī́r mádo matíbhiḥ páriṣkṛtaḥ ||
The Indu (Soma-force), urged on, is anointed and made whole, as a calf with the mothers (nourishing powers). This ecstasy that brings the gods’ heroism is refined and perfected by the clarified thoughts (matīs).
सम् । व॒त्सःऽइ॑व । मा॒तृऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । दे॒व॒ऽअ॒वीः । मदः॑ । म॒तिऽभिः॑ । परि॑ऽकृतः ॥सम् । वत्सःइव । मातृभिः । इन्दुः । हिन्वानः । अज्यते । देवअवीः । मदः । मतिभिः । परिकृतः ॥sam | vatsaḥ-iva | mātṛ-bhiḥ | induḥ | hinvānaḥ | ajyate | deva-avīḥ | madaḥ | mati-bhiḥ | pari-kṛtaḥ