Sukta 9.105
तं वः सखायो मदाय पुनानमभि गायत । शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥
तं व॑: सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत । शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभि॑: ॥
táṃ vaḥ sákhāyo mádāya punānám abhí gāyata | śíśuṃ ná yajñáir svádayanta gūrtíbhiḥ ||
To him, O companions, sing— to the self-purifying One for ecstasy. Make him sweet to the taste like a child, by the works of offering and by the well-shaped utterances.
तम् । वः॒ । स॒खा॒यः॒ । मदा॑य । पु॒ना॒नम् । अ॒भि । गा॒य॒त॒ । शिशु॑म् । न । य॒ज्ञैः । स्व॒द॒य॒न्त॒ । गू॒र्तिऽभिः॑ ॥तम् । वः । सखायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । यज्ञैः । स्वदयन्त । गूर्तिभिः ॥tam | vaḥ | sakhāyaḥ | madāya | punānam | abhi | gāyata | śiśum | na | yajñaiḥ | svadayanta | gūrti-bhiḥ