Sukta 9.104
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि ॥
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥
asmábhyaṃ tvā vasu-víd amabhí vā́ṇīr anūṣata | góbhis te várṇam abhí vāsayāmasi ||
For us the voices have sounded to you, the finder of plenitude. With the rays of Light we clothe your form—making your radiance manifest around us.
अ॒स्मभ्य॑म् । त्वा॒ । व॒सु॒ऽविद॑म् । अ॒भि । वाणीः॑ । अ॒नू॒ष॒त॒ । गोभिः॑ । ते॒ । वर्ण॑म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥अस्मभ्यम् । त्वा । वसुविदम् । अभि । वाणीः । अनूषत । गोभिः । ते । वर्णम् । अभि । वासयामसि ॥asmabhyam | tvā | vasu-vidam | abhi | vāṇīḥ | anūṣata | gobhiḥ | te | varṇam | abhi | vāsayāmasi