Sukta 9.103
परि णेता मतीनां विश्वदेवो अदाभ्यः । सोमः पुनानश्चम्वोर्विशद्धरिः ॥
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः । सोम॑: पुना॒नश्च॒म्वो॑र्विश॒द्धरि॑: ॥
pári ṇetā matīnā́ṃ viśvádevo adā́bhyaḥ | sómaḥ punānáś camvór viśád dháriḥ ||
Moving all around, the infallible Soma—leader of our inspired thoughts, bearer of the powers of all the gods—when self-purifying, enters the vessels; the tawny one becomes clear and luminous within us.
परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥परि । नेता । मतीनाम् । विश्वदेवः । अदाभ्यः । सोमः । पुनानः । चम्वोः । विशत् । हरिः ॥pari | netā | matīnām | viśva-devaḥ | adābhyaḥ | somaḥ | punānaḥ | camvoḥ | viśat | hariḥ