Sukta 9.103
परि वाराण्यव्यया गोभिरञ्जानो अर्षति । त्री षधस्था पुनानः कृणुते हरिः ॥
परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति । त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरि॑: ॥
pári vārā́ṇy avyáyā góbhir añjānó arṣati | trī́ ṣadhásthā punānó kr̥ṇute háriḥ ||
He flows around the fleeces with the unwearied (filter), anointed by the rays; purifying, the tawny one makes for himself the three seats of stability.
परि॑ । वारा॑णि । अ॒व्यया॑ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ । त्री । स॒धऽस्था॑ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः॑ ॥परि । वाराणि । अव्यया । गोभिः । अञ्जानः । अर्षति । त्री । सधस्था । पुनानः । कृणुते । हरिः ॥pari | vārāṇi | avyayā | gobhiḥ | añjānaḥ | arṣati | trī | sadha-sthā | punānaḥ | kṛṇute | hariḥ