Sukta 9.103
प्र पुनानाय वेधसे सोमाय वच उद्यतम् । भृतिं न भरा मतिभिर्जुजोषते ॥
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् । भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥
prá punānā́ya vedhásé sómāya váca údyatam | bhr̥tím ná bharā matíbhir jujóṣate ||
Bring forward the uplifted word to Soma who is purifying, to the wise disposer; carry it like an offering with our thoughts—he will accept and relish it.
प्र । पु॒ना॒नाय॑ । वे॒धसे॑ । सोमा॑य । वचः॑ । उत्ऽय॑तम् । भृ॒तिम् । न । भ॒र॒ । म॒तिऽभिः॑ । जुजो॑षते ॥प्र । पुनानाय । वेधसे । सोमाय । वचः । उत्यतम् । भृतिम् । न । भर । मतिभिः । जुजोषते ॥pra | punānāya | vedhase | somāya | vacaḥ | ut-yatam | bhṛtim | na | bhara | mati-bhiḥ | jujoṣate