Sukta 9.102
समीचीने अभि त्मना यह्वी ऋतस्य मातरा । तन्वाना यज्ञमानुषग्यदञ्जते ॥
स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते ॥
samīcīné abhí tmanā yahvī́ r̥tásya mā́tarā | tanvā́nā yajñám ānuṣág yád añjaté ||
The two mighty Mothers of Truth, facing each other, move by their own self-force; extending the sacrifice in the human course, they anoint/prepare it for that (divine working).
स॒मी॒चीने इति॑ स॒म्ऽई॒ची॒ने । अ॒भि । त्मना॑ । य॒ह्वी । ऋ॒तस्य॑ । मा॒तरा॑ । त॒न्वा॒नाः । य॒ज्ञम् । आ॒नु॒षक् । यत् । अ॒ञ्ज॒ते ॥समीचीने इति सम्ईचीने । अभि । त्मना । यह्वी । ऋतस्य । मातरा । तन्वानाः । यज्ञम् । आनुषक् । यत् । अञ्जते ॥samīcīne itisam-īcīne | abhi | tmanā | yahvī | ṛtasya | mātarā | tanvānāḥ | yajñam | ānuṣak | yat | añjate