Sukta 9.102
क्रत्वा शुक्रेभिरक्षभिॠणोरप व्रजं दिवः । हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥
क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑ॠ॒णोरप॑ व्र॒जं दि॒वः । हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥
krátvā śukrébhir akṣábhir r̥ṇór ápa vrajáṃ diváḥ | hinván r̥tásya dī́dhitiṃ prā́dhvaré ||
By the power of will, with the bright ‘eyes’, he opens the pen of heaven; driving forward the shining thought of Truth, he makes it advance in the sacrifice.
क्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः । हि॒न्वन् । ऋ॒तस्य॑ । दीदि॑तिम् । प्र । अ॒ध्व॒रे ॥क्रत्वा । शुक्रेभिः । अक्षभिः । ऋणोः । अप । व्रजम् । दिवः । हिन्वन् । ऋतस्य । दीदितिम् । प्र । अध्वरे ॥kratvā | śukrebhiḥ | akṣa-bhiḥ | ṛṇoḥ | apa | vrajam | divaḥ | hinvan | ṛtasya | dīditim | pra | adhvare