Sukta 9.102
अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुह॑: । स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ॥
asyá vraté sajóṣaso víśve devā́so adrúhaḥ | spārhā́ bhavanti rántayo juṣánta yát ||
In his law of working, all the gods become of one accord, without hostility; the desirous joys grow full, and they consent to him when that (right order) is established.
अ॒स्य । व्र॒ते । स॒ऽजोष॑सः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ । स्पा॒र्हाः । भ॒व॒न्ति॒ । रन्त॑यः । जु॒षन्त॑ । यत् ॥अस्य । व्रते । सजोषसः । विश्वे । देवासः । अद्रुहः । स्पार्हाः । भवन्ति । रन्तयः । जुषन्त । यत् ॥asya | vrate | sa-joṣasaḥ | viśve | devāsaḥ | adruhaḥ | spārhāḥ | bhavanti | rantayaḥ | juṣanta | yat