Sukta 9.102
जज्ञानं सप्त मातरो वेधामशासत श्रिये । अयं ध्रुवो रयीणां चिकेत यत् ॥
ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये । अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥
jajñānáṃ saptá mā́taro vedhā́m aśāsata śríye | ayáṃ dhrúvo rayīṇā́ṃ ciketa yát ||
When he was born, the seven Mothers set the Knower to the work of splendor; this one becomes the stable foundation of the riches when he awakens to that truth.
ज॒ज्ञा॒नम् । स॒प्त । मा॒तरः॑ । वे॒धाम् । अ॒शा॒स॒त॒ । श्रि॒ये । अ॒यम् । ध्रु॒वः । र॒यी॒णाम् । चिके॑त । यत् ॥जज्ञानम् । सप्त । मातरः । वेधाम् । अशासत । श्रिये । अयम् । ध्रुवः । रयीणाम् । चिकेत । यत् ॥jajñānam | sapta | mātaraḥ | vedhām | aśāsata | śriye | ayam | dhruvaḥ | rayīṇām | ciketa | yat