Sukta 9.102
त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् । मिमीते अस्य योजना वि सुक्रतुः ॥
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् । मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतु॑: ॥
trī́ṇi tritásya dhā́rayā pṛṣṭhéṣv ér̥ayā rayím | mimī́te asya yójanā ví sukrátuḥ ||
With his stream he sets in motion the wealth upon the heights of Trita—threefold; the one of luminous will measures out his linkings and extensions in their right order.
त्रीणि॑ । त्रि॒तस्य॑ । धार॑या । पृ॒ष्ठेषु॑ । आ । ई॒र॒य॒ । र॒यिम् । मिमी॑ते । अ॒स्य॒ । योज॑ना । वि । सु॒ऽक्रतुः॑ ॥त्रीणि । त्रितस्य । धारया । पृष्ठेषु । आ । ईरय । रयिम् । मिमीते । अस्य । योजना । वि । सुक्रतुः ॥trīṇi | tritasya | dhārayā | pṛṣṭheṣu | ā | īraya | rayim | mimīte | asya | yojanā | vi | su-kratuḥ