Sukta 9.102
उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् । यज्ञस्य सप्त धामभिरध प्रियम् ॥
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दम् । य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ॥
úpa tritásya pāṣyòr abhakta yád guhā́ padám | yajñásya saptá dhā́mabhir ádha priyám ||
He has taken his place near the two sides of Trita—there where the secret seat lies hidden in the cave; then, by the seven powers/abodes of the sacrifice, he becomes the beloved (delight) within the work.
उप॑ । त्रि॒तस्य॑ । पा॒ष्योः॑ । अभ॑क्त । यत् । गुहा॑ । प॒दम् । य॒ज्ञस्य॑ । स॒प्त । धाम॑ऽभिः । अध॑ । प्रि॒यम् ॥उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहा । पदम् । यज्ञस्य । सप्त । धामभिः । अध । प्रियम् ॥upa | tritasya | pāṣyoḥ | abhakta | yat | guhā | padam | yajñasya | sapta | dhāma-bhiḥ | adha | priyam