Sukta 9.101
य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । यः पञ्च चर्षणीरभि रयिं येन वनामहै ॥
य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म् । यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥
yá ójiṣṭhas támā bhara pávamāna śravā́yyam | yáḥ páñca carṣaṇī́r abhí rayím yéna vánāmahai ||
Bring to us, O Purifying One, that most powerful and most worthy of hearing—by which we may win the plenitude of being that reaches and supports the fivefold peoples within us.
यः । ओजि॑ष्ठः । तम् । आ । भ॒र॒ । पव॑मान । श्र॒वाय्य॑म् । यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । र॒यिम् । येन॑ । वना॑महै ॥यः । ओजिष्ठः । तम् । आ । भर । पवमान । श्रवाय्यम् । यः । पञ्च । चर्षणीः । अभि । रयिम् । येन । वनामहै ॥yaḥ | ojiṣṭhaḥ | tam | ā | bhara | pavamāna | śravāyyam | yaḥ | pañca | carṣaṇīḥ | abhi | rayim | yena | vanāmahai