Sukta 9.101
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥
सोमा॑: पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः । मि॒त्राः सु॑वा॒ना अ॑रे॒पस॑: स्वा॒ध्य॑: स्व॒र्विद॑: ॥
sómāḥ pavante índavo ’smábhyaṃ gātuvíttamāḥ | mitrā́ḥ suvānā́ arepásaḥ svādhyàḥ svàrvidaḥ ||
The Soma-drops purify themselves for us, most knowing of the paths. They come as friends, well-pressed, without stain—self-mastered in their working, finders of the higher Light.
सोमाः॑ । प॒व॒न्ते॒ । इन्द॑वः । अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑माः । मि॒त्राः । सु॒वा॒नाः । अ॒रे॒पसः॑ । सु॒ऽआ॒ध्यः॑ । स्वः॒ऽविदः॑ ॥सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । मित्राः । सुवानाः । अरेपसः । सुआध्यः । स्वःविदः ॥somāḥ | pavante | indavaḥ | asmabhyam | gātuvit-tamāḥ | mitrāḥ | suvānāḥ | arepasaḥ | su-ādhyaḥ | svaḥ-vidaḥ