Sukta 9.101
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥
अ॒यं पू॒षा र॒यिर्भग॒: सोम॑: पुना॒नो अ॑र्षति । पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥
ayáṃ pūṣā́ rayír bhágaḥ sómaḥ punānó arṣati | pátir víśvasya bhū́mano vy àkhyad ródasī ubhé ||
This Soma, purifying, streams forth as the Nourisher, the Plenitude, the Giver of felicity; lord of the whole wideness, he has made both Heaven and Earth manifest in their truth.
अ॒यम् । पू॒षा । र॒यिः॑ । भगः॑ । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । पतिः॑ । विस्व॑स्य । भूम॑नः । वि । अ॒ख्य॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥अयम् । पूषा । रयिः । भगः । सोमः । पुनानः । अर्षति । पतिः । विस्वस्य । भूमनः । वि । अख्यत् । रोदसी इति । उभे इति ॥ayam | pūṣā | rayiḥ | bhagaḥ | somaḥ | punānaḥ | arṣati | patiḥ | viśvasya | bhūmanaḥ | vi | akhyat | rodasī iti | ubhe iti