Sukta 9.101
सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः । सोम॒: पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥
sahásra-dhāraḥ pavate samudró vā́cam īṅkhayáḥ | sómaḥ pátī rayīṇā́ṃ sakhéndrasya divédive ||
Thousand-streamed he flows, a sea that sets the Word in motion; Soma, lord of plenitudes, is Indra’s companion day by day.
स॒हस्र॑ऽधारः । प॒व॒ते॒ । स॒मु॒द्रः । वा॒च॒म्ऽई॒ङ्ख॒यः । सोमः॑ । पतिः॑ । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥सहस्रधारः । पवते । समुद्रः । वाचम्ईङ्खयः । सोमः । पतिः । रयीणाम् । सखा । इन्द्रस्य । दिवेदिवे ॥sahasra-dhāraḥ | pavate | samudraḥ | vācam-īṅkhayaḥ | somaḥ | patiḥ | rayīṇām | sakhā | indrasya | dive-dive