Sukta 9.101
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥
इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् । वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥
índur índrāya pavata íti devā́so abruvan | vā́caspátir makhasyate víśvasyéśāna ójasā ||
‘Let Indu flow for Indra,’ said the gods; the Lord of the Word grows strong in the sacrifice, master of all by his force.
इन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् । वा॒चः । पतिः॑ । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसा ॥induḥ | indrāya | pavate | iti | devāsaḥ | abruvan | vācaḥ | patiḥ | makhasyate | viśvasya | īśānaḥ | ojasā