Sukta 9.101
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥
सु॒तासो॒ मधु॑मत्तमा॒: सोमा॒ इन्द्रा॑य म॒न्दिन॑: । प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदा॑: ॥
sutā́so mádhumattamāḥ sómā índrāya mándinaḥ | pavítravanto akṣaran devā́n gacchantu vo mádāḥ ||
Pressed Somās, richest in sweetness, gladdening for Indra, flow with the purifier; may your ecstasies go to the gods.
सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ । प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥सुतासः । मधुमत्तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥sutāsaḥ | madhumat-tamāḥ | somāḥ | indrāya | mandinaḥ | pavitra-vantaḥ | akṣaran | devān | gacchantu | vaḥ | madāḥ