Sukta 9.101
तं दुरोषमभी नरः सोमं विश्वाच्या धिया । यज्ञं हिन्वन्त्यद्रिभिः ॥
तं दु॒रोष॑म॒भी नर॒: सोमं॑ वि॒श्वाच्या॑ धि॒या । य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः ॥
táṃ duróṣam abhí nárāḥ sómaṃ viśvā́cyā dhiyā́ | yajñáṃ hinvanty ádribhiḥ ||
To that hard-to-harm Soma the men press forward with an all-reaching thought; with the pressing-stones they drive the sacrifice onward.
तम् । दु॒रोष॑म् । अ॒भि । नरः॑ । सोम॑म् । वि॒श्वाच्या॑ । धि॒या । य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ॥तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया । यज्ञम् । हिन्वन्ति । अद्रिभिः ॥tam | duroṣam | abhi | naraḥ | somam | viśvācyā | dhiyā | yajñam | hinvanti | adri-bhiḥ