Sukta 9.101
यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥
यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः । इन्दु॒रश्वो॒ न कृत्व्य॑: ॥
yó dhā́rayā pāvakáyā pari-prasyándate sutáḥ | índur áśvo na kṛ́tvyaḥ ||
He who, pressed, streams all around in a bright-purifying flow—this Indu is like a swift steed, ready for the work.
यः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः । इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥यः । धारया । पावकया । परिप्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥yaḥ | dhārayā | pāvakayā | pari-prasyandate | sutaḥ | induḥ | aśvaḥ | na | kṛtvyaḥ