Sukta 9.101
पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥
पु॒रोजि॑ती वो॒ अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे॑ । अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्य॑म् ॥
purójitī vo ándhasaḥ sutā́ya mādayitnáve | ápa śvā́naṃ śnathiṣṭana sákhāyo dīrgha-jihvyám ||
O comrades, for your Soma-essence pressed to intoxicate with delight and win the fronts, strike away the long-tongued hound that guards the threshold.
पु॒रःऽजि॑ती । वः॒ । अन्ध॑सः । सु॒ताय॑ । मा॒द॒यि॒त्नवे॑ । अप॑ । श्वान॑म् । श्न॒थि॒ष्ट॒न॒ । सखा॑यः । दी॒र्घ॒ऽजि॒ह्व्य॑म् ॥पुरःजिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । सखायः । दीर्घजिह्व्यम् ॥puraḥ-jitī | vaḥ | andhasaḥ | sutāya | mādayitnave | apa | śvānam | śnathiṣṭana | sakhāyaḥ | dīrgha-jihvyam