Sukta 9.101
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥
स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी । हरि॑: प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सद॑म् ॥
sá vīró dakṣa-sā́dhano ví yás tastámbha ródasī | háríḥ pavítre avyata vedhā́ ná yónim āsádam ||
He is the hero who accomplishes by skill; he who set apart and upheld the two worlds. The tawny one is woven through the filter; like a wise disposer he takes his seat in the womb—establishing the right foundation of the work.
सः । वी॒रः । द॒क्ष॒ऽसाध॑नः । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ । हरिः॑ । प॒वित्रे॑ । अ॒व्य॒त॒ । वे॒धाः । न । योनि॑म् । आ॒ऽसद॑म् ॥सः । वीरः । दक्षसाधनः । वि । यः । तस्तम्भ । रोदसी इति । हरिः । पवित्रे । अव्यत । वेधाः । न । योनिम् । आसदम् ॥saḥ | vīraḥ | dakṣa-sādhanaḥ | vi | yaḥ | tastambha | rodasī iti | hariḥ | pavitre | avyata | vedhāḥ | na | yonim | āsadam