Sukta 9.101
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । सरज्जारो न योषणां वरो न योनिमासदम् ॥
आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्यो॑: । सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद॑म् ॥
ā́ jāmír átke avyata bhujé ná putrá óṇyoḥ | sárat jā́ro ná yóṣaṇāṃ váro ná yónim āsádam ||
The intimate one has been woven on the garment, like a son on the lap of the two mothers. He moves swiftly like a lover toward the women; like a bridegroom he takes his seat in the womb—entering the matrix of manifestation.
आ । जा॒मिः । अत्के॑ । अ॒व्य॒त॒ । भु॒जे । न । पु॒त्रः । ओ॒ण्योः॑ । सर॑त् । जा॒रः । न । योष॑णाम् । व॒रः । न । योनि॑म् । आ॒ऽसद॑म् ॥आ । जामिः । अत्के । अव्यत । भुजे । न । पुत्रः । ओण्योः । सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आसदम् ॥ā | jāmiḥ | atke | avyata | bhuje | na | putraḥ | oṇyoḥ | sarat | jāraḥ | na | yoṣaṇām | varaḥ | na | yonim | āsadam