Sukta 9.101
अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥
अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि । कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम् ॥
ávyó vā́rebhiḥ pavate sómo gávye ádhi tváci | kánikradad vṛ́ṣā hárir índrasyā́bhy eti niṣkṛtám ||
Through the woolly filters the Soma purifies himself upon the bright hide of Light. Crying out in his strength, the tawny Bull moves toward Indra’s open space—the liberated field prepared for the victorious power.
अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । सोमः॑ । गव्ये॑ । अधि॑ । त्व॒चि । कनि॑क्रदत् । वृषा॑ । हरिः । इन्द्र॑स्य । अ॒भि । ए॒ति॒ । निः॒ऽकृ॒तम् ॥अव्यः । वारेभिः । पवते । सोमः । गव्ये । अधि । त्वचि । कनिक्रदत् । वृषा । हरिः । इन्द्रस्य । अभि । एति । निःकृतम् ॥avyaḥ | vārebhiḥ | pavate | somaḥ | gavye | adhi | tvaci | kanikradat | vṛṣā | hariḥ | indrasya | abhi | eti | niḥ-kṛtam