Sukta 9.101
प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः । अप श्वानमराधसं हता मखं न भृगवः ॥
प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वच॑: । अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥
prá sunvāná syā́ndhasaḥ márto ná vṛta tád vácaḥ | ápa śvā́nam arā́dhasaṃ hatā́ mákhaṃ ná bhṛ́gavaḥ ||
Let the word go forth from the pressed sweetness; let it not be held back like a mortal’s. Cast away the barking adversary that brings no right gain—strike it down, as the Bhṛgus smite the obstructing force in the sacrifice.
प्र । सु॒न्वा॒नस्य॑ । अन्ध॑सः । मर्तः॑ । न । वृ॒त॒ । तत् । वचः॑ । अप॑ । श्वान॑म् । अ॒रा॒धस॑म् । ह॒त । म॒खम् । न । भृग॑वः ॥प्र । सुन्वानस्य । अन्धसः । मर्तः । न । वृत । तत् । वचः । अप । श्वानम् । अराधसम् । हत । मखम् । न । भृगवः ॥pra | sunvānasya | andhasaḥ | martaḥ | na | vṛta | tat | vacaḥ | apa | śvānam | arādhasam | hata | makham | na | bhṛgavaḥ