Sukta 9.101
एते पूता विपश्चितः सोमासो दध्याशिरः । सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥
ए॒ते पू॒ता वि॑प॒श्चित॒: सोमा॑सो॒ दध्या॑शिरः । सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥
eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ | sū́ryāso ná darśatā́so jigatnávo dhruvā́ ghṛté ||
These are the purified Soma-powers, clear-seeing, mixed with the curd of nourishment. Like suns they are beautiful to behold; they press on toward the goal, firm-set in the ghee—stable in the luminous richness.
ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः । सूर्या॑सः । न । द॒र्श॒तासः॑ । जि॒ग॒त्नवः॑ । ध्रु॒वाः । घृ॒ते ॥एते । पूताः । विपःचितः । सोमासः । दधिआशिरः । सूर्यासः । न । दर्शतासः । जिगत्नवः । ध्रुवाः । घृते ॥ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ | sūryāsaḥ | na | darśatāsaḥ | jigatnavaḥ | dhruvāḥ | ghṛte