Sukta 9.101
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥
सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि । इष॑म॒स्मभ्य॑म॒भित॒: सम॑स्वरन्वसु॒विद॑: ॥
susvāṇā́so vy àdribhíś citā́nā gór ádhi tváci | íṣam asmábhyam abhítaḥ sám asvaran vasuvídaḥ ||
Well-pressed, driven out by the pressing-stones, they are gathered upon the hide of the Cow; and from every side they sound together for us the impulsion of force—these finders of the true riches.
सु॒स्वा॒णासः॑ । वि । अद्रि॑ऽभिः । चिता॑नाः । गोः । अधि॑ । त्व॒चि । इष॑म् । अ॒स्मभ्य॑म् । अ॒भितः॑ । सम् । अ॒स्व॒र॒न् । व॒सु॒ऽविदः॑ ॥सुस्वाणासः । वि । अद्रिभिः । चितानाः । गोः । अधि । त्वचि । इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुविदः ॥susvāṇāsaḥ | vi | adri-bhiḥ | citānāḥ | goḥ | adhi | tvaci | iṣam | asmabhyam | abhitaḥ | sam | asvaran | vasu-vidaḥ