Sukta 9.100
त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः । वत्सं जातं न धेनवः पवमान विधर्मणि ॥
त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुह॑: । व॒त्सं जा॒तं न धे॒नव॒: पव॑मान॒ विध॑र्मणि ॥
tvā́m rihanti mātáro háriṃ pavítre adrúhaḥ | vatsáṃ jātáṃ na dhénavaḥ pavamāna ví-dharmaṇi ||
The nurturing powers, without hostility, lick and cherish you—the tawny Soma—in the purifier; like cows their newborn calf, they foster you, O Pavamāna, in the wide law of your working.
त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ । व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥त्वाम् । रिहन्ति । मातरः । हरिम् । पवित्रे । अद्रुहः । वत्सम् । जातम् । न । धेनवः । पवमान । विधर्मणि ॥tvām | rihanti | mātaraḥ | harim | pavitre | adruhaḥ | vatsam | jātam | na | dhenavaḥ | pavamāna | vi-dharmaṇi