Sukta 9.100
पवस्व वाजसातमः पवित्रे धारया सुतः । इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥
पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः । इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥
páv asva vā́ja-sātamaḥ pavítre dhā́rayā sutáḥ | índrāya soma víṣṇave devébhyo mádhumattamaḥ ||
Flow purified, most winning of plenitude, pressed into the purifier as a stream; for Indra, O Soma, for Viṣṇu, for the gods—most honey-rich in delight.
पव॑स्व । वा॒ज॒ऽसात॑मः । प॒वित्रे॑ । धार॑या । सु॒तः । इन्द्रा॑य । सो॒म॒ । विष्ण॑वे । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ॥पवस्व । वाजसातमः । पवित्रे । धारया । सुतः । इन्द्राय । सोम । विष्णवे । देवेभ्यः । मधुमत्तमः ॥pavasva | vāja-sātamaḥ | pavitre | dhārayā | sutaḥ | indrāya | soma | viṣṇave | devebhyaḥ | madhumat-tamaḥ